Skip to content

Dattātreya-purāṇa I.6

  1. इन्द्रोऽमदाय गुर्वीशवेदान्तभजने स्थितः। स्वर्गेऽद्यापीतरेषां तु कथा का दभ्रवेदिनां॥
  2. आजीवितं त्रयः सेव्या वेदान्तो गुरुरीश्वरः। पूर्वं ज्ञानाप्तये पश्चात्कृतघ्नत्वनिवृत्तये॥
  3. महानुशासनं चेत्थं मनस्यानीय तत्त्रयम। सिध्द्येदनेनेति मत्वा सन्माहात्म्यं यतिर्जगौ॥
  4. सृष्ट्वेदं माययास्यान्तर्बहिःस्थोऽभवदत्रिजः। गूढः साक्षी ज्ञानगम्यः सोऽव्यात्सचित्सुखात्मकः॥
  5. लीलात्मना योऽत्रिगृहेऽवतीर्णो दत्ताख्य उन्मत्तपिशाचवद्यः। बालो युवा क्कापि जरन् जटाभृत्क्कचिदृषिर्व्यक्तपरीक्षितश्च॥
  6. त्यागी सुभोगी क्वचिदस्ति सङ्गी योगी सुवासाः क्वचिदस्ति नग्नः। तुष्टः कृशः पुष्ट इह क्वचिद्यो दण्डी च भिक्षुः क्वचिदस्ति वर्णी॥
  7. गृही वनी वर्णविरुद्धचेष्टः क्वचिच्च वर्णाश्रमधर्मयुक्तः। इत्यादयो यस्य विचित्र वेष्टा देवर्षिहृद्वागयनं व्यतीताः॥
  8. यो भक्तरक्षाक्षण एव यस्य वै सेवा स्मृतिर्भोज्यनिवेदनं धिया। पूजाफलं योऽर्प्यतीह दुर्लभं भक्तस्मृतौ सन्निधिकृत्क्षणे क्षणे॥
  9. यस्यास्ति माहुरे निद्रा निवासः सह्यपर्वते। भागीरथ्यां सदा स्नानं ध्यानं गन्धर्वपत्तने॥
  10. कुरुक्षेत्र चाचमनं धूतपापेश्वरे तथा। विभूतिधारणं संध्या करहाटे श्रियः पुरे॥
  11. भिक्षा विठ्ठलपुर्यस्य सुगन्धिद्रव्यधरणम्। भुक्तिः सारपुरे सायंसंध्या पश्चिमसागरे॥
  12. स एष भगवान्दत्तः सदा वसतु मे हृदि। हृद्धीन्द्रियादिव्यापारे सदा तत्स्मृतिरस्तु मे॥
  13. विजय तेऽज यते जयते यतेरिह तमो हतमोहतमो नमः। हृदि कदाय पदाय सदा यदा तदुदयो नदयो न वियोनय:॥
  14. उदयतेऽनयतेर्न यतेर्यदा मनसि कामनिकामगतिस्तदा। पदुदयो हृदयोकसि ते सिते भवति योवति योगिवराऽवरान्॥
  15. भवति भावभवोवभवो यदा भवति कामनिकामहतिस्तदा। भवति मानवमानवदुत्तमे भवतिरोधिरतो विरतोत्तमे॥
  16. तव सतां वसतां मनसाऽनसा प्रपदयोः पदयो रजसाञ्जसा। सुसहितः स हितस्तव तावता यदवतारवता जनतावता॥
  17. कृतफलं तु विहाय विहायसा समभजं भजतामज तामसात्। मिलति तारकमत्र कमत्रसत्पदरजो भ्रमहारि महारिसत्॥
  18. तदजरामत कोशविलक्षणं सहज धीगुणवेत्तृ कलक्षणम्। भुवनहेत्वघहृत्त्रिपुराधिकं तव न जातु पदं कुपुराधिकम्॥
  19. विविधभेदपरं सम दृश्यते विविधवेदपरं कमदृश्य ते। पदमिदं सदु चिद्धनमुद्धियाऽसदनिदं प्रजहात्यघनुद्धि या॥
  20. अज नमोऽजनमोहनमोह नः प्रिय नियोजन तेन यतेन ते। य इह वेदनिवेदनि वेद वेत्त्यजपदं जपदन्तपदं पदम्॥
  21. एवं स्तुत्वा निजप्रज्ञापरिणामावधीश्वरम्। माहात्म्यं वक्तुमाजह्वे श्रीदत्तस्य तदीरितः॥
  22. अथ शाण्डिल्यनामासीद्ब्रह्मर्पिर्वै महामुनिः। वेदवेदाङ्गशास्त्रज्ञ स्वाश्रमोचितकर्मकृत्॥
  23. भक्त्या परमयोपास्तश्रीदत्तपदयङ्कूजः। सज्ञानगर्भवैराग्योपरत्याढ्योऽपि दैवतः॥
  24. विद्यामलभमानोऽसौ चतुर्वेदेषु तर्कतः। भूत्वा भिन्नमतिः स्मृत्वा गुरुद्वारा श्रुतीरिताम्॥
  25. विद्याप्राप्तिमथर्वाणमुपसन्नो महामतिम्। सोऽभिवाद्याह भगवन्ब्रह्मविधामधीहि मे॥
  26. वरं निगूढां सत्सेव्या श्रेयोऽवाप्स्याम्यहं यया। शास्ति स्निग्धं विनीतं हि श्रीगुरुर्गुह्यमप्युत॥
  27. इति शिष्येण सोऽथर्वा संपुष्टः प्राह सोम्य ताम्। श्रद्धाभक्तिध्यानयोगादवेहि त्यागपूर्वकम्॥
  28. त्रिकालं बाधराहित्यं जगद्धाधैकसाक्षिकम्। सत्यत्वमस्य विज्ञेयं ब्रह्मणोऽविक्रियस्य हि॥
  29. विदिताविदितान्यत्वं त्रिपुटीपरिवर्जितम्। स्वयंप्रकाशरूपं तज्ज्ञानलक्ष्मास्य केवलम्॥
  30. देशतः कालवस्तुभ्यां परिच्छेदो यतोऽस्य नो। विभोरेकस्य चानन्तलक्ष्म सर्वात्मकस्य च॥
  31. सत्यं ज्ञानमनन्तं चेत्युक्तं तद्ब्रह्मलक्षणम्। इदमेकं चाद्वितीयं यत्सदा भेदवर्जितम्॥
  32. तच्छब्दलक्ष्येऽस्मिन्नोतं प्रोतं चैतत्तादाश्रयम्। यस्मिञ्ज्ञाते सर्वमिदं विज्ञातं भवति ध्रुवम्॥
  33. अस्याभिन्ननिमित्तोपादानत्वं चैक्यसिद्धये। प्रकृत्यधिष्ठात्रैक्यं च प्रतिज्ञातमनेन हि॥
  34. अन्यथा सर्वविज्ञानमेकविज्ञानतः कथम्। सूत्रे प्रतिज्ञादृष्टान्तानुपरोधादितीरितम्॥
  35. सच्चिदानन्दैकरसं परं ब्रह्मामृतं तु तत्। आत्मशक्तिप्रधानः सन्सर्वज्ञो निखिलेश्वरः॥
  36. देवः सर्वान्तरात्मैको भूतावासो निगूढकः। योगैकगम्यो यो विश्वं सृजत्यवति हन्ति च॥
  37. अन्तर्यामी च मायावी स तु तच्छाब्दवाचकः। योऽस्मत्प्रत्ययशब्दाभ्यालम्बः कामादिदूषकः॥
  38. तव्द्योमवत्सर्वगतमद्वितीयं निरञ्जनम्। सन्मात्रं निष्कलं शान्तमप्रमेयमजं शिवम्॥
  39. अयं त्वंपदवाच्योऽन्तःकरणच्छिन्नबोधकः। देहेन्द्रियमनःप्राणाहंकारेभ्यो विलक्षणः॥
  40. साक्षी विशुद्धः कूटस्थः प्रत्यक्त्वंपदलक्ष्यकः। धीदीपो निर्विकारो धीवृत्तिव्याप्योऽपि केवलः॥
  41. प्रत्यक्परोक्षादिवैरं तयोर्हित्वा चिदात्मताम्। गृहीत्वा लक्षितां शुद्धां भूमैक्यज्ञानतो भवेत्॥
  42. वाग्धीनिवृत्त्यानाप्त्या च फलव्याप्तिर्निवारिता। एवमात्मस्थमात्मानं योगेन श्रवणादिना॥
  43. जानात्यैक्यं स मुक्तः सन्कृतकृत्यो भवेद्ध्रुवम्। आत्मविज्ञानेन सोम्य शोकस्यान्तं गमिष्यसि॥
  44. इदं श्रद्धत्स्व माशोचीः शोकस्यान्तं गमिष्यसि। अत्र योगं प्रवक्ष्यामि येनात्माऽऽशु प्रसीदति॥
  45. योगः स्यात्प्रत्यगात्मैक्यमष्टावङ्गानि तस्य तु। देहेन्द्रियादौ विरक्तिर्यमो मिथ्यात्ववीक्षणात्॥
  46. स्वात्मतत्त्वेऽनुरक्तिर्नियमः सत्यत्वनिश्चयात्। बाह्याथादौंसीन्यतोऽन्तर्दृष्टिस्थापनमासनम्॥
  47. पूरश्चिदन्वयादानं कुम्भकस्तत्स्थिरीकृतिः। रेचको मायिकत्यागः प्राणायामस्त्रिधोदितः॥
    • pūraścidanvayādānaṁ kumbhakas – tat + sthirīkr̥tiḥ, recako māyika + tyāgaḥ prāṇāyāmas – tridhoditaḥ.
  48. प्रत्याहारो गोस्वभावदृष्ट्यार्थासक्त्यभावदृक्। धारणा स्वात्मनिष्ठा स्याद्वीतदुर्भावनं दृढा॥
    • pratyāhāro go + svabhāva + dr̥ṣṭyārthāsaktyabhāva + dr̥k, dhāraṇā svātmaniṣṭhā syādvīta + durbhāvanaṁ dr̥ḍhā.
    • Retragerea simțurilor (pratyāhāra)
  49. ध्यानं ब्रह्माहमस्मीति दृक्प्रवाहोऽन्यवर्जनात्। देहात्मवत्परात्मत्वदृक् समाधिर्हि सुस्थिरा॥
    • dhyānaṁ brahma – aham – asmi – iti dr̥k + pravāho – anya + varjanāt, deha + ātmavat + parātmatva + dr̥k samādhir – hi susthirā.
    • Meditația (dhyāna) este „eu sunt brahman”.
  50. परिपक्वकषायाणां योगोऽयं शीघ्रमुक्तिदः। किंचित्पक्वकषायाणां योगोऽयं शीघ्रमुक्तिदः॥

इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां प्रथमाष्टके ज्ञानकाण्डे शाण्डिल्याथर्वसंवादे सम्यगात्मयाथात्म्यो नाम षष्ठोऽध्याय: ॥६॥श्रीदत्त:॥
इति श्रीदत्तपुराणे सम्यगात्मयाथात्म्यो नाम प्रथमाष्टके षष्ठोऽध्याय: ॥१।६॥