Skip to content

Śiva-yoga-darpaṇa

Kindle
  1. भ्रुवोर्मध्ये शिवस्थानं मनस्तत्र विलीयते। ज्ञातव्यं तद् पदं दिव्यं तत्र कालो न विद्यते॥ 
  2. सूर्याचन्द्रमसोर्मध्ये मुद्रां दद्याच्च खेचरीम्। निरालम्बे महाशून्ये ब्रह्मचक्रं व्यवस्थितम्॥
  3. तत्त्वं बीजं हठः क्षेत्रमौदासीन्यं जलं त्रिभिः। उन्मनी कल्पलतिका सद्य एवोद्भविष्यति॥
  4. अत्याहारः प्रयासश्च प्रजल्पो नियमग्रहः। जनसङ्गश्च लौल्यञ्च षड्भिर्योगो विनश्यति॥
  5. उत्साहो निश्चयं धैर्यं तत्त्वज्ञानार्थदर्शनम्। जनसङ्गपरित्यागः षड्भिर्योगः प्रसिद्ध्यति॥
  6. हठं विना राजयोगो राजयोगं विना हठः। न सिद्ध्यति ततो युग्मं मनीषी तत् समभ्यसेत्॥
  7. न दृष्टिलक्षाणि न चित्तबन्धो न देशकालौ न च वायुरोधः। न धारणा ध्यान परिश्रमो वा समेधमानेसति राजयोगे॥
  8. तारकाग्रस्थितं तेजस्तद्बिन्दुस्यूतिर्ते यदि। योगं तारकमित्याहुर्योगिनो ब्रह्मवादिनः॥
  9. भालोर्ध्वगोल्लाटविशेषमण्डले निरन्तरं चिद्गगने महामनाः। सतारकं विस्फुरदीक्षणेन विलोकयेच्चेत् स तु सिद्धिमाप्नुयात्॥
  10. द्वादशाङ्गुलदूरेऽस्मिन् शिरोदेशे महाप्रभे। प्रादेशमात्रव्यायामं ज्योतिःपुञ्जं महाद्भुतम्॥
  11. तद्दर्शनेन सततममृतत्त्वं भविष्यति। तारकं दुर्भराम्भोधेस्तारकं मोक्षकारकम्॥
  12. अमनस्कात् सिद्धिरस्मादभ्यासेन भवत्यलम्। अतिमूढमतिव्यक्तमतिरम्यमनामयम्॥
  13. आत्मस्थानं परं गुप्तं ज्ञायते गुरुवाक्यतः। उन्मेषः प्रतिपच्चक्षुरमावास्यास्तलोचनम्॥
  14. अर्धावलोकनं यत् स्यात् पौर्णमासीं वदन्ति ताम्। आदिद्वयं परित्यज्य तृतीयन्तु समभ्यसेत्॥
  15. पौर्णिमादृष्टियोगेन स्थित्वा तारकलक्षणे। सावधानेन योगीन्द्रस्तिष्ठच्चेत् स सुखी भुवि॥
  16. तालुमूले द्वादशाङ्गुल्यग्रभागस्य मध्यमे। पुरतो बाह्यहीनं चेत् तमोरूपं प्रकाशते॥
  17. तन्मध्यभागे चिद्योनिमनोदृष्ट्या निरन्तरम्। विलोकयेच्चेत् तत्काले ज्योतिःपुञ्जं महाद्भुतम्॥
  18. अखण्डेन्दुसमाकारं परं चिन्मयात्मकम्। ? सत्यज्ञानानन्दरूपं महालिङ्गं प्रकाशते॥
  19. जपयोगानभिज्ञस्य मनःस्थैर्यं न जायते। गुरूणा शाम्भवी मुद्रा दत्ता चेल्लभते ध्रुवम्॥
  20. वक्त्रे प्राणानिलं पूर्यं वह्निस्थानानिलं तथा। आकुञ्चयेद् गलं किञ्चिन्नादो व्यक्तो भविष्यति॥
  21. निस्संशयेन मनसा वर्तते यदि निश्चलः। राजयोगीति विख्यातो योगनिद्रासमाश्रितः॥
  22. अश्रुसम्पातपर्यन्तमाचार्यैस्त्राटकं स्मृतम्। व्यापारशून्ये मनसि स्थिरयोस्तारयोर्बहिः॥
  23. चान्द्री कला चिदाकाशादाविर्भवति योगिनः। समदृष्टिरवाग्दृष्टिरिति ?? त्रिधा॥
  24. काकाक्षिन्यायतस्तत्र सम्यक् स्याद् बिन्दुदर्शनम्। मनः पवनयोगेन यावच्छक्तिप्रधानकम्॥
  25. तावन्मात्रन्तु विश्राम्य चिदाकाशं तु लक्षयेत्। आकाशे तिष्ठते सूर्यः सर्वयोगेषु गोपितः॥
  26. लक्षैकलग्ने मनसि ह्यमनस्कं प्रजायते। समनस्के तु सञ्जाते स्वरूपं सम्प्रजायते॥

॥ इति शिवगोरक्षकृत शिवयोगदर्पणं सम्पूर्णम्॥

Kindle