Skip to content

Tripurā-rahasya-jñāna-khaṇḍa III

Kindle
  1. दत्तात्रेयप्रोक्तवचः श्रुत्वाऽत्यन्तसुकौतुकी। जामदग्न्यः पुनरपि पप्रच्छ विनयान्वितः॥
  2. भगवन्गुरुनाथोक्तं भवता यत्तथैव तत्। अविचारात्परो नाशः संप्राप्तः सर्वथा जनैः॥
  3. विचारेण भवेच्छ्रेयस्तन्निदानमपि श्रुतम्। माहात्म्यश्रुतिरित्येवं तत्र​ मे संशयो महान्॥
  4. कथं वा तदपि प्राप्यं साधनं तत्र​  किं भवेत्। स्वाभविकं तद्यदि स्यात्तत्सर्वैर्न कुतः श्रुतम्॥
  5. अहं वाद्यावधि कुतः प्रवृत्तिं नाप्तवानिह। दुःखं मत्तोऽधिकं प्राप्ता विहताश्च पदे पदे॥
  6. न कुतः साधनं प्राप्ता एतन्मे कृपया वद। इत्यापृष्टः प्राह भूयो हृष्टो दत्तो दयानिधिः॥
  7. श्रुणु राम प्रवक्ष्यामि निदानं श्रेयसः परं। … परं मूलं सर्वदुःखनिबर्हणम्॥
  8. परमार्थफलप्राप्तौ बीजं सत्सङ्ग उच्यते। त्वं चापि तेन हि सता संवर्तेन महात्मना॥
  9. सङ्गतः सन्निमां प्राप्तो दशा श्रेयःफलोदयाम्। सन्त एव हि संयाता दिशन्ति परमं सुखम्॥
  10. विना सत्सङ्गतः केन प्राप्तः श्रेयः परं कदा।  लोकेऽपि यादृशं सङ्गं यो यः प्राप्नोति मानवः॥
  11. तत्फलं स समाप्नोति सर्वथा न हि संशयः। अत्र ते कीर्तयिष्यामि श्रुणु राम कथामिमाम्॥
Kindle