Skip to content

Yoga-bῑja

Kindle

Gorakṣa Nātha

  1. श्री देव्युवाच:। नमस्ते आदिनाथाय विश्वनाथाय ते नमः। नमस्ते विश्वरूपाय विश्वातीताय ते नमः॥
  2. उत्पत्तिस्थितिसंहारकारिणे क्लेषहारिणे। नमस्ते देवदेवेश नमस्ते परमात्मने॥
  3. योगमार्गकृते तुभ्यं महायोगेश्वराय ते। नमस्ते परिपूर्णाय जगदानन्दहेतवे॥
  4. सर्वे जीवाः सुखैर्दुःखैर्मायाजालेन वेष्टिताः। तेषां मुक्तिः कथं देव कृपया वद शङ्कर॥
  5. नानामार्गास्त्वया देव कथितास्तु महेश्वर। अधुना मोक्षदं मार्गं ब्रूहि योगविदांवरम्॥
  6. ईश्वर उवाच:। सर्वसिद्धिकरो मार्गो मायाजालनिकृन्तकः। जन्ममृत्युजराव्याधिनाशकः सुखदो भवेत्॥
  7. बद्धा येन विमुच्यन्ते नाथमार्गमतः परम्। तमहं कथयिष्यामि तव प्रीत्या सुरेश्वरि॥
  8. नानामार्गैस्तु दुष्प्राप्यं कैवल्यं परमं पदम्। सिद्धमार्गेण लभ्येत नान्यथा शिवभाषितम्॥
  9. अनेकशतसंख्याभिस्तर्कव्याकरणादिभिः। पतिताः शास्त्रजालेषु प्रज्ञया ते विमोहिताः॥
  10. अनिर्वाच्यपदं वक्तुं न शक्यते सुरैरपि। स्वात्मप्रकाशरूपं तत्किं शास्त्रेण प्रकाश्यते॥
  11. निश्कलं निर्मलं शान्तं सर्वातीतं निरामयम्। तदेतज्जीवरूपेण पुण्यपापफलैर्वृतम्॥
  12. देव्युवाच:। परमात्मपदं नित्यं तत्कथं जीवतां गतम्। तत्त्वातीतं महादेव प्रसादात्कथयस्व मे॥
  13. ईश्वर उवाच:। सर्वभावपदातीतं ज्ञानरूपं निरञ्जनम्। वारिवत्स्फुरितं स्वस्मिंस्तत्राहङ्कृतिर् उत्थिता॥
  14. पञ्चात्मकमभूत्पिण्डं धातुबद्धं गुणात्मकम्। सुखदुःखैः सदा युक्तं जीवभावनयाकुलम्॥
  15. तेन जीवाभिधा भोक्ता विशुद्धे परमात्मनि। कामः क्रोधो भयं चिन्ता लोभो मोहो मदो रुजाः॥
  16. जरा मृत्युश्च कार्पण्यं शोको निद्रा क्षुधा तृषा। द्वेषो लज्जा सुखं दुःखं विषादो हर्ष एव च॥
  17. जाग्रत्स्वप्नः सुषुप्तिश्च शङ्का गर्वस्तथैव च। एभिर्दोषैर्विनिर्मुक्तः स जीवः शिव एव हि॥
  18. तस्माद्दोषविनाशार्थमुपायं कथयामि ते। ज्ञानं केचिद्वदन्त्य् अत्र केवलं तन्न सिद्धये॥
  19. योगहीनं कथं ज्ञानं मोक्षदं भवतीश्वरि। योगोऽपि ज्ञानहीनस्तु न क्षमो मोक्षकर्मणि॥
  20. देव्युवाच:। अज्ञानादेव संसारो ज्ञाणादेव विमुच्यते। योगेनैषां तु किं कार्यं मे प्रसन्नगिरा वद॥
  21. ईश्वर उवाच:। सत्यमेतत्त्वयोक्तं ते कथयामि सुरेश्वरि। ज्ञानस्वरूपमेवादौ ज्ञेयं ज्ञानं च साधनम्॥
  22. अज्ञानं कीदृशं चेति प्रविचार्यं विवेकिना। ज्ञातं येन निजं रूपं कैवल्यं परमं शिवम्॥
  23. असौ दोषैर्विमुक्तः किं कामक्रोधभयादिभिः। सर्वदोषैर्वृत्तो जीवः कथं ज्ञानेन मुच्यते॥
  24. देव्युवाच:। स्वात्मरूपं यदा ज्ञातं पूर्णं तद्व्यापकं तदा। कामक्रोधादिदोषाणां स्वरूपान्नास्ति भिन्नता॥
  25. पश्चात्तस्य विधिः कश्चिन्निषेधोऽपि कथं भवेत्। विवेकी सर्वदा मुक्तः संसारभ्रमवर्जितः॥
  26. ईश्वर उवाच:। परिपूर्णस्वरूपं तत्सत्यमेतद्वरानने। सकलं निष्कलं चैव पूर्णत्वाच्च तदेव हि॥
  27. कलनास्फूर्तिरूपेणा संसारभ्रमतां गतम्। एतद्रूपं समायातं तत्कथं मोहसागरे॥
  28. निष्कलं निर्मलं साक्षात्स्वरूपं गगनोपमम्। उत्पत्तिस्थितिसंहारस्फूर्तिज्ञानविवर्जितम्॥
  29. निमज्जति वरारोहे त्यक्त्वा विद्यां पुनः पुनः। सुखदुःखादिमोहेषु यथा संसारिणां स्थितिः॥
  30. तथा ज्ञानी यदा तिष्ठेद्वासनावासितस्तदा। तयोर्नास्ति विशेषोऽत्र समा संसारभावना॥
  31. ज्ञानं चेदीदृशं ज्ञातमज्ञानं कीदृश पुनः। ज्ञाननिष्ठो विरक्तोऽपि धर्मज्ञो विजितेन्द्रियः॥
  32. विना योगेन देवोऽपि नो मोक्षं लभते प्रिये॥
  33. देव्युवाच:। अन्यत्किञ्चित्परिज्ञेयं ज्ञानिनां नास्ति शङ्कर। विरक्तात्मकनिष्ठानां कथं मोक्षो भवेन्न तु॥
  34. ईश्वर उवाच:। अपक्वाः परिपक्वाश्च द्विविधाः देहिनः स्मृताः। अपक्वा योगहीनास्तु पक्वा योगेन देहिनः॥
  35. पक्वो योगाग्निना देही ह्यजडः शोकवर्जितः। जडस्तत्पार्थिवो ज्ञेयो ह्यपक्वो दुःखदो भवेत्॥
  36. ध्यानस्थोऽसौ तथाप्येवमिन्द्रियैर्विवशो भवेत्। अतिगाढं नियम्यापि तथाप्यन्यैः प्रबोध्यते॥
  37. शीतोष्णसुखदुःखाद्यैर्व्याधिभिर्मानवैस्तथा। अन्यैर्नानाविधैर्जीवैः शस्त्राग्निजलमारुतैः॥
  38. सरीरं पीड्यते चास्य चित्तं संक्षुभ्यते ततः। प्राणापानविपत्तौ तु क्षोभमायाति मारुतः॥
  39. ततो दुःखशतैर्व्याप्तं चित्तं लुब्धं भवेन्नृणाम्॥
  40. देहावसानसमये चित्ते यद्यद्विभावयेद्। तत्तदेव भवेज्जीव इत्य् एवं जन्मकारणम्॥
  41. देहान्ते किं भवेज्जन्म तन्न जानन्ति मानवाः। तस्मज्ज्ञानं न वैराग्यं जपः स्यात्केवलः श्रमः॥
  42. पिपीलिका यदा लग्ना देहे ध्यानाद्विमुच्यते। असौ किं वृश्चिकैर्दष्टो देहान्ते वा कथं सुखी॥
  43. तस्मान्मूढा न जानन्ति मिथ्या तर्केण वेष्टिताः॥
  44. अहङ्कृतिर्यदा यस्य नष्टा भवति तस्य वै। देहः स तु भवेन्नष्टो व्याधयस्तस्य किं पुनः॥
  45. जलाग्निशस्त्रघातादिबाधा कस्य भविष्यति। यथा यथा परिक्षीणा पुष्टा चाहङ्कृतिर्भवेत्॥
  46. अभ्यासेनास्य नश्यन्ति प्रवर्तन्ते शमादयः। कारणेन विना कार्यं न कदाचन विद्यते॥
  47. अहङ्कारं विना तद्वद्देहे दुःखं कथं भवेत्॥
  48. देव्युवाच:। योगिनः कथ्यमानास्तु किं ते व्यवहरन्ति न। तैः कथं व्यवहारस्तु क्रियते वद शङ्कर॥
  49. ईश्वर उवाच:। शरीरेण जिताः सर्वे शरीरं योगिभिर्जितम्। तत्कथं कुरुते तेषां सुखदुःखादिकं फलम्॥
  50. इन्द्रियाणि मनो बुद्धिः कामक्रोधादिकं जितम्। तेनैव विजितं सर्वं नासौ केनापि बाध्यते॥
  51. महाभूतानि तत्त्वानि संहृतानि क्रमेण च। सप्तधातुमयो देहो दग्धो योगाग्निना शनैः॥
  52. देवैरपि न लभ्येत योगदेहो महाबलः। छेदबन्धविमुक्तोऽसौ नानाशक्तिधरः परः॥
  53. यथाकाशस्तथा देह आकाशादपि निर्मलः। सूक्ष्मात्सूक्ष्मतरो देहः स्थूलत्स्थूलो जडाज्जडः॥
  54. इच्छारूपो हि योगीन्द्रः स्वतन्त्रस्त्वजरामरः। क्रीडति त्रिषु लोकेषु लीलया यत्र कुत्रचित्॥
  55. अचिन्त्यशक्तिमान्योगी नानारूपाणि धारयेत्। संहरेच्च पुनस्तानि स्वेच्छया विजितेन्द्रियः॥
  56. मरणं तस्य किं देवि पृच्छसीन्दुसमानने। नासौ मरणमाप्नोति पुनर्योगबलेन तु॥
  57. पुरैव मृत एवासौ मृतस्य मरणं कुतः। मरणं यत्र सर्वेषां तत्रासौ सुखि जीवति॥
  58. यत्र जीवन्ति मूडास्तु तत्रासौ म्रियते सदा। कर्तव्यं नैव तस्यास्ति कृतेनासौ न लिप्यते॥
  59. जीवन्मुक्तः सदा स्वस्थः सर्वदोषविवर्जितः॥
  60. विरक्ता ज्ञानिनश्चान्ते देहेन विजिताः सदा। ते कथं योगिभिस्तुल्या मांसपिण्डाः कुदेहिनः॥
  61. देव्युवाच:। ज्ञानिनस्तु मृता ये वै तेषां भवति कीदृशी। गतिः कथय देवेश कारुण्यामृतवारिधे॥
  62. ईश्वर उवाच:। देहान्ते ज्ञानिभिः पुण्यात्पापाच्च फलमाप्यते। यादृशं तु भवेत्तत्र भुक्त्वा ज्ञानी पुनर्भवेत्॥
  63. पुण्यात्पुण्येन लभते सिद्धेन सह सङ्गतिम्। ततः सिद्धस्य कृपया योगी भवति नान्यथा॥
  64. ततो नश्यति संसारो नान्यथा शिवभाषितम्॥
  65. महाविष्णुमहेशानां प्रलयेष्वपि योगिनाम्। नास्ति पातो लयस्थानां महातत्त्वे विवर्तिनाम्॥
  66. वेदान्ततर्कोक्तिभिरागमैश्च नानाविधैः शास्त्रकदम्बकैश्च। ध्यानादिभिः सत्करणैर्न गम्यं चिन्तामणिं त्वेकगुरुं विहाय॥
  67. देव्युवाच:। ज्ञानादेव हि मोक्षं तु वदन्ति ज्ञानिनः सदा। न कथं सिध्यति ततो योगोऽसौ मोक्षदो भवेत्॥
  68. ईश्वर उवाच:। ज्ञानेनैव हि मोक्षो हि वाक्यं तेषान्तु नान्यथा। सर्वे वदन्ति खड्गेन जयो भवति तर्हि कः॥
  69. विना युद्धेन वीर्येण कथं जयमवाप्नुयात्। तथा योगेन रहितं ज्ञानं मोक्षाय नो भवेत्॥
  70. ज्ञानेनैव विना योगो न सिध्यति कदाचन। तस्मादत्र वरारोहे तयोर्भेदो न विद्यते॥
  71. जन्मान्तरैश्च बहुभिर्योगो ज्ञानेन लभ्यते। ज्ञानं तु जन्मनैकेन योगादेव प्रजायते॥
  72. तस्माद्योगात्परतरो नास्ति मार्गस्तु मोक्षदः॥
  73. देव्युवाच:। बहुभिर्जन्मभिर्ज्ञानाद्योगः सम्प्राप्यते कथम्। योगात्तु जन्मनैकेन कथं ज्ञानमवाप्यते॥
  74. ईश्वर उवाच:। प्रविचार्य चिरं ज्ञानान्मुक्तोऽहमिति मन्यते। किमसौ मननादेव मुक्तो भवति तत्क्षणात्॥
  75. पुमञ्जन्मान्तरशतैर्योगादेव विमुच्यते। न तथा भवतो योगाज्जन्ममृत्यू पुनः पुनः॥
  76. प्राणापानसमायोगाच्चन्द्रसूर्यैकता भवेत्। सप्तधातुमयं देहमग्निना प्रदहेद्बुधः॥
  77. व्याधयस्तस्य नश्यन्ति छेदघातादिका व्यथाः। तथाऽसौ परमाकाशरूपो देह्यवतिष्ठते॥
  78. किं पुनर्बहुनोक्तेन मरणं नास्ति तस्य वै। देहोऽवदृश्यते लोके दग्धकर्पटवत्स्वयम्॥
  79. चित्तं प्राणेन संनद्धं सर्वजीवेषु संस्थितम्। रज्जुर्यद्वत्परीबद्धा रज्ज्वाओ तद्वदिदं मनः॥
  80. नाना विधैर्विचारैस्तु न साध्यं जायते मनः। तस्मात्तस्य जयोपायः प्राण एव हि नान्यथा॥
  81. तर्कैर्जल्पैः शास्त्रजालैर्युक्तिभिर्मन्त्रभेषजैः। न वशो जायते प्राणः सिद्धोपायं विना प्रिये॥
  82. उपायं तस्य विज्ञाय योगमार्गो प्रवर्तते। खण्डज्ञानेन तेनैव जायते क्लेशभाङ् नरः॥
  83. येऽजित्वा पवनं मोहाद्योगमिच्छन्ति योगिनः। तेऽपक्वं कुम्भमारुह्य तर्तुमिच्छन्ति सागरम्॥
  84. यस्य प्राणो विलीनोऽथ साधके सति जीविते। पिण्डो न पतितस्तस्य चित्तदोषैः प्रमुच्यते॥
  85. शुद्धे चेतसि तस्यैव स्वात्मज्ञानं प्रकाशते। तस्माज्ज्ञानं भवेद्योगाज्जन्मनैकेन पार्वति॥
  86. तस्माद्योगं तमेवादौ साधको नित्यमभ्यसेत्। मुमुक्षुभिः प्राणजयः कर्तव्यो मोक्षहेतवे॥
  87. योगात्परतरं पुण्यं योगात्परतरं सुखम्। योगात्परतरं सूक्ष्मं योगमार्गात्परं न हि॥
  88. देव्युवाच:। योगः क उच्यते देव योगाभ्यासोऽपि कीदृशः। योगेन वा भवेत्किञ्चित्तत्सर्वं वद शङ्कर॥
  89. ईश्वर उवाच:। योऽपानप्राणयोर्योगः स्वरजोरेतसोस्तथा। सूर्याचन्द्रमसोर्योगो जीवात्मपरमात्मनोः॥
  90. एवं तु द्वन्दजालस्य संयोगो योग उच्यते। अधुना संप्रवक्ष्यामि योगाभ्यासस्य लक्षणाम्॥
  91. मरुज्जयो यस्य सिद्धः सेवयेत्तं गुरुं सदा। गुरुवक्त्रप्रसादेन कुर्यात्प्राणजयं बुधः॥
  92. वितस्तिप्रमितं दैर्घ्यं विस्तारे चतुरङ्गुलम्। मृदुलं धवलं प्रोक्तं वेष्टनाम्बरलक्षणम्॥
  93. निरुध्य मारुतं गाढं शक्तिचालनयुक्तितः। अष्टधा कुण्डलीभूतामृजुं कर्तुं तु कुण्डलीम्॥
  94. भानोराकुञ्चनं कुर्यात्कुण्डलीं चालयेत्ततः। मृत्युवक्त्रगतस्यापि तस्य मृत्युभयं कुतः॥
  95. एतदेव परं गुह्यं कथितं तव पार्वति। वज्रासनगतो नित्यं मासार्धं तु समभ्यसेत्॥
  96. वायुना ज्वलितो वह्निः कुण्डलीमनिशं दहेत्। संतप्ता साग्निना नाडी शक्तिस्त्रैलोक्यमोहिनी॥
  97. प्रविशेद्वज्रदण्डे तु सुषुम्णावदनान्तरे। वयुना वह्निना सार्धं ब्रह्मग्रन्थिं भिनत्ति सा॥
  98. विष्णुग्रन्थिं ततो भित्त्वा रुद्रग्रन्थौ च तिष्ठति। ततस्तु कुम्भकैर्गाड्ःअं पूरयित्वा पुनः पुनः॥
  99. तथाऽभ्यसेत्सूर्यभेदमुज्जायीं चापि शीतलीम्। भस्त्रां च सहितं नाम स्यात्कुम्भकचतुष्टयम्॥
  100. बन्धत्रयेण संयुक्तः केवलः प्राप्तिकारकः। अथास्य लक्षणं सम्यक्कथयामि समासतः॥
  101. एकाकिना समुपगम्य विविक्तदेशं प्राणादिरूपममृतं परमार्थतत्त्वम्। स्वल्पाशिना धृतिमता परिभावनीयं संसाररोगहरमौषधमद्वितीयम्॥
  102. सूर्यनाड्या समाकृष्य वायुमभ्यासयोगतः। विधिवत्कुम्भकं कृत्वा रेचयेच्छीतरश्मिना॥
  103. उदरे वातदोषघ्नं कण्ठदोषं निहन्ति च। मुहुर्मुहुरिदं कार्यं सूर्यभेदमुदाहृतम्॥
  104. नाडीभ्यां वायुमाकृष्य कुण्डल्याः पार्श्वयोः सुधीः। धारयेदुदरे योगी रेचयेदिडया पुनः॥
  105. कण्ठे कफादिदोषघ्नं शरीराग्निविवर्धनम्। शिरोजलोदराधातुगतरोगविनाशनम्॥
  106. गच्छता तिष्ठता कार्यमुज्जाय्याख्यं तु कुम्भकं। मुखेन वायुं सङ्गृह्य घ्राणरन्ध्रेण रेचयेत्॥
  107. शीतलीकरणं चेदं हन्ति पित्तं तथा ज्वरम्॥
  108. स्तनयोरथ भस्त्रेव लोहकारस्य वेगतः। रेचयेत्पूरयेद्वायुमाश्रमं देहगं धिया॥
  109. यदा श्रमो भवेद्देहे तदा सूर्येण पूरयेत्॥
  110. कण्ठसंकोचनं कृत्वा पुनश्चन्द्रेण रेचयेत्। वातपित्त्तश्लेष्महरं शरीराग्निविवर्धनम्॥
  111. कुण्डलीबोधकं वक्रभावघ्नं सुखदं शुभम्। ब्रह्मनाडीमुखे संस्थं कफाद्यर्गलनाशनम्॥
  112. सम्यग्गात्रसमुद्भूतं ग्रन्थित्रयविभेदकम्। विशेषेनैव कर्तव्यं भस्त्राख्यं कुम्भकं त्व् इदम्॥
  113. बन्धत्रयमथेदानीं प्रवक्ष्यामि यथार्थवत्। नित्यं कृतेन येनाऽसौ वायोर्जयमवाप्नुयात्॥
  114. चतुर्णामपि भेदानां कुम्भके समुपस्थिते। बन्धत्रयमिदं कार्यं वक्ष्यमाणं मया स्फुटम्॥
  115. प्रथमो मूलबन्धस्तु द्वितीय उड्डियानकः। जालन्धरस्तृतीयस्तु लक्षणं कथयाम्यहम्॥
  116. गुदं पार्ष्ण्या तु संपीड्य वायुमाकुञ्चयेद्बलात्। वारं वारं तथा चोर्धं समायाति समीरणः॥
  117. प्राणापानौ नादबिन्दू मूलबन्धेन चैकताम्। गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः॥
  118. कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियानकः। बद्धो येन सुषुम्णायां प्राणस्तूड्डीयते यतः॥
  119. तस्मादुड्डीयाणाख्योऽयं योगिभिः समुदाहृतः। उड्डीयानं तु सहजं गुरुणा कथितं सदा॥
  120. अभ्यसेत्सततं यस्तु वृद्धोऽपि तरुणायते। नाभेरुर्ध्वमधश्चापि प्राणं कुर्यात्प्रयत्नतः॥
  121. षण्मासमभ्यसेन्मृत्युं जयत्येव न संशयः। पूरकान्तेऽपि कर्तव्यो बन्धो जालन्धराभिधः॥
  122. कण्ठसंकोचरूपोऽसौ वायुर्मार्गनिरोधकः। कण्ठमाकुञ्च्य हृदये स्थापयेद्दृढमिच्छया॥
  123. बन्धो जालन्धराख्योऽयं अमृतो व्ययकारकः। अधस्तात्कुञ्चनेनाशु कण्ठसंकोचनेन च॥
  124. मध्यमाभ्रमणेन स्यात्प्राणो ब्रह्मनाडिगः॥
  125. वज्रासनस्थितो योगि चालयित्वा तु कुण्डलीम्। कुर्यादनन्तरं भस्त्रां कुण्डलीमाशु बोधयेत्॥
  126. भिद्यन्ते ग्रन्थयो वंशे तप्तलोहशलाकया। तथैव पृष्ठवंशे स्याद्ग्रन्थिभेदस्तु वायुना॥
  127. पिपीलिका यथा लग्ना कण्डूस्तत्र प्रवर्तते। सुषुम्णायां तथाऽभ्यासात्सततं वायुना भवेत्॥
  128. रुद्रग्रन्थिं ततो भित्त्वा सैवायाति शिवात्मकम्। चन्द्रसूर्यौ समौ कृत्वा तयोर्योगः प्रवर्तते॥
  129. गुणत्रयादतीतः स्याद्ग्रन्थित्रयविभेदकः। शिवशक्तिसमायोगाज्जायते परमा स्थितिः॥
  130. यथा करी करेणैव पानीयं प्रपिबेत्सदा। सुषुम्णावक्त्रनलिनं पवमानं ग्रसेत्तथा॥
  131. वज्रदण्डेन सम्भूता मणयश्चैकविंशतिः। सुषुम्णायां स्थिताः सर्वे सूत्रे मणिगणा इव॥
  132. मोक्षमार्गे प्रसिद्धा सा सुषुम्णा विश्वधारिणी। यत्र वै निर्जितः कालश्चन्द्रसूर्यनिबन्धनात्॥
  133. आपूर्य कुम्भितो वायुर्बहिर्नो याति साधकैः॥
  134. पुनः पुनस्तद्वदेतत्पश्चिमद्वारलक्षणम्। पूरितस्तु नवद्वारैरीषत्कुम्भकतां गतः॥
  135. प्रविशेत्सर्वगात्रेषु वायुः पश्चिममार्गतः। रेचके क्षीणतां याते पूरकं शोषयेत्सदा॥
  136. स एव नाथसंकेतः सिद्धसंकेतलक्षणः॥
  137. गुरुप्रसादान्मरुदेव साधितस् तेनैव चित्तं पवनेन साधितम्। स एव योगी स जितेन्द्रियः सुखी। मूढा न जानन्ति कुतर्कवादिनः॥
  138. चित्तं हि नष्टं यदि मारुते स्यात्तत्र प्रतीतो मरुतोऽपि नाशः। न चेदिदं स्यान्न तु तस्य शास्त्रं नात्मप्रतीतिर्न गुरुर्न मोक्षः॥
  139. तुम्बिका रोधिता यद्वद्बलादाकर्षति ध्रुवम्। ब्रह्मनाडी तथा धातून् सन्तताभ्यासयोगतः॥
  140. अनेनाभ्यासयोगेन नित्यमासनबन्धतः। चित्तं विलीनतामेति बिन्दुर्नो यात्य् अधस्तथा॥
  141. रेचकं पूरकं कृत्वा वायुना स्थीयते चिरम्। नानानादाः प्रवर्तन्ते संस्रवेच्चन्द्रमण्डलम्॥
  142. नश्यन्ति क्षुत्पिपासाद्याः सर्वदोषास्तथा सदा। स्वरूपे सच्चिदानन्दे स्थितिमाप्नोति केवलम्॥
  143. कथितं तु तव प्रीत्या एतदभ्यासलक्षणम्। मन्त्रो हठो लयो राजयोगान्तर्भूमिकाः क्रमात्॥
  144. एक एव चतुर्धोऽयं महायोगोऽभिधीयते॥
  145. श्री देव्युवाच:। कथयेदं महादेव योगतत्त्वं चतुर्विधम्। भूमिकां सिद्धसिद्धान्तां यथाभूतां क्रमान्मम॥
  146. ईश्वर उवाच:। हकारेण बहिर्याति सकारेण विशेन्मरुत्। हंस हंसेति मन्त्रोऽयं सर्वजीवा जपन्ति तम्॥
  147. गुरुवाक्यात्सुषुम्णायां विपरीतो भवेज्जपः। सोऽहं सोऽहमिति प्राप्तो मन्त्रयोगः स उच्यते॥
  148. प्रतीतिर्वायुयोगाच्च जायते पश्चिमे पथि। हकारेण तु सूर्योऽसौ ठकारेणेन्दुर् उच्यते॥
  149. सूर्याचन्द्रमसोरैक्यं हठ इत्यभिदीयते। हठेन ग्रस्यते जाड्यं सर्वदोषसमुद्भवम्॥
  150. क्षेत्रज्ञपरमात्मानौ तयोरैक्यं यदा भवेत्। तदैक्ये साधिते देवि चित्तं याति विलीनताम्॥
  151. पवनः स्थैर्यमायाति लययोगोदये सति। लयात्सम्प्राप्यते सौख्यं स्वात्मानन्दं परं पदम्॥
  152. अणिमादिपदे प्राप्ते राजते राजयोगतः। प्राणापानसमायोगे ज्ञेयं योगचतुष्टयम्। संक्षेपात्कथितं देवि नान्यथा शिवभाषितम्॥
  153. श्री देव्युवाच:। कथय त्वं महादेव काकमर्कटयोर्मतम्। अन्यग्रन्थे त्वयोक्तं तु कथमेका द्वयोर्गतिः॥
  154. ईश्वर उवाच:। सत्यमेतत्त्वयोक्तं ते कथयामि सुरेश्वरि। आदिनाथमहामार्ग एक एव हि नान्यथा॥
  155. द्विधेव सम्प्रतीयेत तज्जन्मान्तरभेदतः॥
  156. क्रमेण प्राप्यते प्राप्यमभ्यासादेव नान्यथा॥
  157. एकेनैव शरीरेण योगाभ्यासाच्छनैः शनैः। चिरात्सम्प्राप्यते सिद्धिर्मर्कटक्रम एव सः॥
  158. योगसिद्धिं विना देहः प्रमादाद्यदि नश्यति। पूर्ववासनया युक्तः शरीरं चान्यदाप्नुयात्॥
  159. ततः पुण्यवशात्सिद्धिर्गुरुणा सह सङ्गतिः। पश्चिमद्वारमार्गेण जायते त्वरितं फलम्॥
  160. पूर्वजन्मकृताभ्यासात्सत्वरं फलमश्नुते। एतदेव हि विज्ञेयं तत्काकमतमुच्यते॥
  161. तस्मात्काकमतान्नास्ति त्वभ्यासाख्यमतः परम्। न कर्मणा विना देवि योगसिद्धिः प्रजायते॥
  162. ज्ञानं वा स्वर्गभोगो वा पुण्यहीनैर्न लभ्यते। तस्मात्कार्यं तदेवं यद्यस्य यस्य हि साधनम्॥
  163. तेनैव प्राप्यते सिद्धिर्नान्यथा शिवभाषितम्। नानाविधाः क्रमाः काष्ठाः सहजा वा लयादिकाः। न तु तन्मोक्षमार्गे स्यात्प्रसिद्धं पश्चिमं विना॥
  164. अभ्यासस्य फलं देवि कथयाम्य् अधुना स्फुटम्। आदौ रोगाः प्रणश्यन्ति पश्चाज्जाड्यं शरीरजम्॥
  165. ततः समरसो भूत्वा चन्द्रो वर्षत्यनारतम्। धातूंश्च संग्रसेद्वह्निः पवनेन समन्ततः॥
  166. नानानादाः प्रवर्तन्ते मार्दवं स्यात्कलेवरे॥
  167. जित्वा पृथ्व्यादिकं जाड्यं खेचरः प्रसरेत्पुमान्। सर्वज्ञोऽसौ भवेत्कामरूपः पवनवेगवान्॥
  168. क्रीडति त्रिषु लोकेषु जायन्ते सिद्धयोऽखिलाः। कर्पूरे लीयमाने किं काठिन्यं तत्र विद्यते॥
  169. अहङ्कारलये तत्र देहे कठिनता कुतः। सर्वज्ञः सर्वकर्ता च स्वतन्त्रो विश्वरूपवान्॥
  170. जीवन्मुक्तो भवेद्योगी स्वेच्छया भुवने भ्रमेत्॥
  171. श्री देव्युवाच:। यत्किञ्चित्कलनाजालं न तन्मोक्षाय शङ्कर। सिद्धयः किं करिष्यन्ति निर्विकल्पे चिदात्मनि॥
  172. एवं मे संशयं नाथ छेत्तुमर्हसि पावन॥
  173. ईश्वर उवाच:। सत्यमेतत्त्वयोक्तं ते वदामि शृणु सुन्दरि। द्विविधाः सिद्धयो लोके कल्पिताकल्पिताः शिवे॥
  174. रसौषधिक्रियाकालमन्त्रक्षेत्रादिसाधनात्। सिद्ध्यन्ति सिद्धयो यास्तु कल्पितास्ताः प्रकीर्तिताः॥
  175. अनित्या अल्पवीर्यास्ताः सिद्धयः साधनोद्भवाः। साधनेन विनाप्येवं जायन्ते स्वत एव हि॥
  176. स्वात्मयोगैकनिष्ठे तु स्वातन्त्र्यादीश्वरस्ततः। प्रभूताः सिद्धयो यास्ताः कल्पनारहिताः स्मृताः॥
  177. सिद्धा नित्या महावीर्या इच्छारूपाश्च योगजाः। चिरकालात्प्रजायन्ते वासनारहितेषु च॥
  178. ताः शुभा या महायोगात्परमात्मपदेऽव्यये। विना कार्यं सदा दीप्तं योगसिद्धस्य लक्षणम्॥
  179. यथा काशीं समुदृश्य गच्छद्भिः पथिकैः पथि। नानातीर्थानि दृश्यन्ते तथा मोक्षे तु सिद्धयः॥
  180. स्वयमेव प्रजायन्ते लाभालाभविवर्जिते। योगमार्गे तथैवेदं सिद्धिजालं प्रवर्तते॥
  181. परीक्षकैः स्वर्णकारैर्हेम सम्प्रोच्यते यथा। सिद्धिभिर्लक्षयेत्सिद्धं जीवन्मुक्तं तथैव च॥
  182. अलौकिकगुणस्तस्य कदाचिद्दृस्यते ध्रुवम्। इत्येतत्कथितं देवि योगसिद्धस्य लक्षणम्॥
  183. सिद्धिभिः परिहीनं तु नरं बद्धं हि लक्षयेत्। अजरामरपिण्डो यो जीवन्मुक्तः स एव हि॥
  184. ये श्वकुक्कुटकीटाद्या मृतिं सम्प्राप्नुवन्ति ते। तेषां किं पिण्डपातेन मुक्तिर्भवति सुन्दरि॥
  185. न बहिः प्राण आयाति पिण्डस्य पतनं कुतः। पिण्डपातेन या मुक्तिः सा मुक्तिस्तु न कथ्यते॥
  186. देहो ब्रह्मत्वमायाति जलतां सैन्धवं यथा। अनन्यतां यदा याति तदा मुक्तः स उच्यते॥
  187. चिन्मयानि शरीराणि इन्द्रियाणि तथैव च। अनन्यतां यदा याति तदा मुक्तः स उच्यते॥
  188. एतत्ते कथितं देवि तव प्रीत्या सुरेश्वरि। गोपनीयं प्रयत्नेन क्रूरे धूर्त्ते शठे खले॥
  189. दातव्यं शिवभक्तेषु नाथमार्गपरेषु च। योगबीजं महागुह्यं यन्मया प्रकटीकृतम्॥
  190. श्री देव्युवाच:। गतो मे संशयो नाथ कृपया तव शङ्कर। नमस्ते योगराजाय सर्वज्ञाय नमो नमः॥

इति श्रीमहेश्वरापरपर्यायभगवद्गोरक्षनाथोद्भावितयोगबीजं पूर्णम्॥


Adrián Muñoz. Yogabῑja: a Critical Transcription of a Text on a Haṭhayoga.

Kindle