Skip to content

Yoga-mārtaṇḍa

Kindle

Gorakṣa Nātha

  1. द्विजचोदितशंखस्य ( शाखस्य ) श्रुतिकल्पतरोः फलं। शमनं भवतापस्य योगं सेवत सत्तमाः॥१॥
  2. आसनं प्राणसंरोधः प्रत्याहारश्च धारणा। ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट्॥२॥
  3. आसनानि च तावन्ति यावन्तो जीवजन्तवः। एतेषां लक्षणं भेदं विजानाति महेश्वरः॥३॥
  4. चतुराशीतिलक्षाणामेकमेकमुदाहृतम्। ततः शिवेन पीठानां षोडशोनः शतं कृतम्॥४॥
  5. आसनेभ्यः समस्तेभ्यः द्वयमेव विशिष्यते। एकं स्वस्थासनं ( सिद्धासनं ) प्रोक्तं द्वितीयं कमलासनम्॥५॥
  6. योनिस्थानैकमंघ्रिमूलघटितं कृत्वा दृढं विन्यसेत्। मेढ्रे पादमथैकमेव हृदये कृत्वा समं विग्रहं॥६॥
  7. स्थाणुः संयमितेंद्रियोsचलदृशो सश्चेद्भु (पश्येद्भ्रू) वोरन्तरम्। चैतन् मोक्षकवाटभेदजनकं सिद्धासनं प्रोच्यते॥७॥
  8. वामोरूपरि दक्षिणं च चरणं विन्यस्य वामं तथा। नाम्यो (दक्षो) रूपरि पश्चिमेन घटिता धृत्वा कराभ्यां दृढम्॥८॥
  9. अङ्गुष्ठे (ष्ठौ) हृदये निधाय चिबुकं नासाग्रमालोकयेत्। एतद् व्याधिविकारहारि यमिनां पद्मासनं प्रोच्यते॥९॥
  10. आधारं प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम्। योनिस्थाने तयोर्मध्ये कामरूपं निगद्यते॥१०॥
  11. आधाराख्ये गुदस्थाने पङ्कजं यच्चतुर्दलम्। तन्मध्ये प्रोच्यते योनिः कामाख्या सिद्धवन्दिता॥११॥
  12. योनिमध्ये महालिङ्गं पश्चिमाभिमुखं स्थितम्। मस्तके मणिमद्भिन्नं ( वद्बिम्बं ) यो जानाति स योगवित्॥१२॥
  13. तप्तचामीकराभासं तडिल्लेखव विस्फुरत्। त्रिकोणं तत्पुरं वह्नेः अथो ( धो ) मेढ्रे प्रदेशतः ( मेढ्रात्प्रातिष्ठितम् )॥१२ अ॥
  14. स्व शब्देन भवेत्प्राणः स्वाधिष्ठानमिति स्मृतम्। स्वाधिष्ठानमिदं चक्रं मेढ्रमेव निगद्यते॥१३॥
  15. तन्तुना मणिवत्प्रोक्तं ( तं ) पूर्यते यत्र वायुना। तं नाभिमण्डलं चक्रं प्रोच्यते मणिपूरकम्॥१४॥
  16. द्वादशारे महाचक्रे पुण्य – पाप – विवर्जिते। तावज्जनो भ्रमत्येव यावत्तत्त्वं न विन्दति॥१५॥
  17. ऊर्ध्वं मेढ्रादधो नाभेः कन्दो योsस्ति ( निः ) खगांडवत्। तत्र नाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः॥१६॥
  18. तेषु नाडीसहस्रेषु द्विसप्ततिरुदाहृताः। प्रधानाः प्राणवाहिन्यो भवास्तत्र दश स्मृताः॥१७॥
  19. इडा च पिङ्गला चैव सुषुम्ना च तृतीयकम्। गान्धारी हस्तजिह्वाच पूषा चैव पयस्विनी॥१८॥
  20. अलम्बुषा कुहूश्चैव शंखिनी दशमी स्मृताः। एवं नाडीमयं चक्रं ज्ञातव्यं योगिभिः सदा॥१९॥
  21. सततं प्राणवाहिन्यश्चन्द्रसूर्याग्निदेवताः। इडा पिङ्गला सुषुम्नेति तिस्रो नाड्य उदीरिताः॥२०॥
  22. इडा वामे स्थिता भागे पिङ्गला दक्षिणे तथा। सुषुम्ना मध्यदेशे तु प्राणमार्गास्त्रयः स्मृताः॥२१॥
  23. प्राणापानसमानश्च उदानो व्यान एव च। नागः कूर्मोsथ कृकरो देवदत्तो धनञ्जयः॥२२॥
  24. हृदि प्राणो वशी नित्यं अपानो गुदमण्डले। समानो नाभिदेशे तु उदानः कण्ठमध्यगः॥२३॥
  25. व्यानो व्याप्य शरीरे तु प्रधाना पञ्च वायवः। प्राणाद्याः पञ्च विख्याताः नागाद्याः पञ्चवायवः॥२४॥
  26. नागो गृह्णाति पञ्चैताः (?) कूर्म उन्मीलने स्थितः। क्षुधं करोति कृकरो देवदत्तो विजृम्भणे॥२५॥
  27. वृत्तं धनञ्जयः शब्दे क्षणमात्रं न निश्रयेत्। एवं नाडीसहस्रेषु वर्तन्ते जीवरूपिणः॥२६॥
  28. प्राणापानवशाच्छ्वासो अधश्चोर्ध्वं प्रधावति। वामदक्षिणमार्गेण चञ्चलत्वान्न दृश्यते॥२७॥
  29. आक्षिप्तो भुविपाशेन ( भुजदण्डेन ) यथा चलति कन्दुकः। प्राणापानसमुत्क्षिप्तस्तत्त्व ( था ) जीवो न विश्रमेत्॥२८॥
  30. रज्जुबंधे यथान्योsन्यो ( श्येनो ) गतोsप्याकृष्यते पुनः। गुणबन्धस्तथा जीवः प्राणापानेन कृष्यते॥२९॥
  31. प्राणेनाकृष्यतेsपानः प्राणोsपानेन कृष्यते। उर्ध्वं चाधःस्थितावेतौ यो जानाति स योगवित्॥३०॥
  32. हंकारेण बहिर्याति सकारेण विशेत्पुनः। हंसो हंसेत्युमं मंत्रं जीवो जपति सर्वदा॥३१॥
  33. षट्शतानि अहोरात्रं सहस्राण्येकविशंतिः। एतत्संख्यान्वितं मंत्रं जीवो जपति सर्वदा॥३२॥
  34. अजपा नाम गायत्री योगिनां मोक्षदाय ( यि ) का। अस्य संकल्पमात्रेण नरः पापैः प्रमुच्यते॥३३॥
  35. अनया सदृशी विद्या अनया सदृशो जपः। अनया सदृशं पुण्यं न भूतो न भविष्यति॥३४॥
  36. कुण्डलिन्या समुत्पन्ना गायत्री प्राणधारिणी। प्रणवाद्यास्तथा ( प्राणविद्यामहा ) विद्या यस्तं वेद स वेदवित्॥३५॥
  37. कन्दोर्ध्वं कुण्डली शक्तिः अष्टधा कुण्डलीकृता। ब्रह्मद्वारमुखं नित्यं मुखेन चाध्यव ( ? चाच्छाद्य ) तिष्ठति॥३६॥
  38. योगमार्गेण ( येनद्वारेण ) गन्तव्यं ब्रह्मस्थानं निरामयम्। मुखेनाभ्युद्यते तत्र प्रसन्ना ( मुखेनाच्छाद्य तद् द्वारं प्रसुप्ता ) परमेश्वरी॥३७॥
  39. प्रस्फुरद्भुजगाकारा पद्मतन्तुनिभा शुभा। प्रसुप्ता वायुना सार्धं प्रबोधं याति साग्निना॥३८॥
  40. प्रबुद्धावग्नियोगेन मनसा मरुता सह। सूचीव गुणमादाय व्रजत्युर्ध्वं सुषुम्नया॥३९॥
  41. उद्धाटयेत् कवाटं तु यथा कुम्भि ( ञ्चि ) कया हठात्। कुण्डलिन्या तथा योगी मोक्षमार्गं प्रभेदयेत्॥४०॥
  42. कृत्वा संघटितौ करौ दृढतरं बध्वा तु पद्मासनम्। गाढं वक्षसि सन्निधाय चिबुकं ध्यानं ततश्चेतसा॥४१॥
  43. पारं वा…समूर्ध्नि ( वारंवारमपानमुर्ध्व ) मनिलं प्रोच्चालयन् पूरितम्। प्राणं मुञ्चति रोधमेति शनकैः शक्तिप्रबोधान्नरः॥४२॥
  44. अङ्गानां मर्दनं कुर्यात्स्वेदवारिनिवारणम्। दृढता लघुता चापि तेन गात्रस्य जायते॥४३॥
  45. कट्वम्ललवणत्यागी क्षीरभोजनमाचरेत्। ब्रह्मचारी मिताहारी योगी योगपरायणः॥४४॥
  46. कन्दोर्ध्वं कुण्डली शक्तिरष्टधा कुण्डलीकृता। बन्धनाय च मूढानां योगिनां मोक्षदायिका॥४५॥
  47. महामुद्रा नभोमुद्रा ओड्याणं च जलन्धरम्। मूलबन्धं च यो वेत्ति स योगी सिद्धिभाग् भवेत्॥४६॥
  48. अपानप्राणयोरैक्यं क्षयो मूत्रपूरीषयोः। युवा भवति वृद्धोsपि सततं मूलबन्धनात्॥४७॥
  49. पार्ष्णिभागेन सम्पीड्य योनिमाकुञ्चयेद्गुदम्। अपानमुर्ध्वमाकृष्य मूलबन्धो निगद्यते॥४८॥
  50. ओड्याणं कुरुते यस्मादविश्रान्तं महाखगः। ओड्याणं च तथैव स्यात्तच्च बद्धो विधीयते॥४९॥
  51. उदरात्पञ्चिमे भागे अधो नाभेस्तथा युते। ओड्याणाख्यो स्वयं बद्धो मृत्युमातङ्गकेसरी॥५०॥
  52. बन्धाति हि शिराजालं अधो नाभिं नभोजलम्। ततो जालन्धरो बन्धः कण्ठदुःखौघनाशनः॥५१॥
  53. जालन्धरे कृते बद्धे कर्ण ( कण्ठ ) संकोचलक्षणे। पीयूषं न पतत्यग्नौ न च वायुः प्रकृप्यति॥५२॥
  54. चित्तं चरति खे यस्माज्जिह्वा चरति खे गता। कपालकुहरे जिह्वा प्रविष्टा विपरीतगा॥५३॥
  55. भ्रुवोरन्तर्गता दृष्टि र्मुद्रा भवति खेचरी। न रोगो मरणं तस्य न निद्रा न क्षुधा तषा॥५४॥
  56. न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरी। तनैषा खेचरी मुद्रा सर्वसिद्धैर्नमस्कृता॥५५॥
  57. गुदमूल शरीराणां ( बिन्दूर्मूलं शरीराणां ) शिरस्तत्र प्रतिष्ठितम्॥५६॥
  58. भावयन्ति शरीराणां ( ? ) आपादतलमस्तकः। खेचरीं ( र्या ) मुद्रितं येन विवरं लम्बिकोर्ध्वतः॥५७॥
  59. न तस्य क्षरते बिन्दुः कामिन्याश्लेषितस्य च। यावद्बिन्दुः स्थितो देही ( हे ) तावन्मृत्युभयं कुतः॥५८॥
  60. यावद्बद्धा नभो मुद्रा तावद्बिन्दुर्न गच्छति। चलितोsपि यदा विन्दुः संप्राप्तस्य हुताशनम्॥५९॥
  61. व्रजमूर्ध्वं तथा शक्त्या निबद्धो योनिमुद्रया। सततं द्विविधो बिन्दुः पाण्डुरो लोहितस्तथा॥६०॥
  62. पाण्डुरं शुक्लमित्याहुः लोहिताख्यं महारजः। सिन्धूररजसंकाशं रविस्थाने स्थितं रजः॥६१।
  63. शक्तिस्थाने स्थितो बिन्दुस्तयोरैक्यं सुदुर्लभम्। बिन्दुः शिवो रजश्शक्तिः लम्बे यदारजः ( विन्दुरिन्दुः रजो रविः )॥६२॥
  64. यदा रजो बिन्दोः सहैकत्वं भवेद्दिव्यं वपुस्तथा। सुप्रभया संगमादेव प्राप्यते ह्यमृतं पदम्। वायुना शक्ति चालयेदिन्दु विन्दु रजो रविः॥६३॥
  65. शुक्रं चन्द्रेण संयुक्तं रजस्सूर्येण संयुतम्। द्वयोस्समरसैकत्वं यो जानाति स योगवित्॥६४॥
  66. शोधनं नाडिजालस्य चालनं चन्द्रसूर्ययोः। रसना शोषणं चैव महामुद्रां च योsभ्यसेत्॥६५॥
  67. हंस ( वक्ष ) न्यस्त हनुः प्रपीडयत रसाः ( ? हठाद् ) योनिं च वामांघ्रिणा। हस्ताभ्यां हनुं धारयेत् प्रसारितं पादं तथा दक्षिणम्॥६६॥
  68. आपूर्य श्वसनेन कुक्षिविवरं बध्वा शनै रेचयेत्। सर्वव्याधिविनाशिनीति महती मुद्रा नॄणां प्रोच्यते॥६७॥
  69. सूर्याङ्गेण समभ्यस्य चन्द्राङ्गेणाभ्यसेत्पुनः यावत्तुल्या भवेत्संख्या ततो मुद्रां विसर्जयेत्॥६८॥
    न हि पथ्यमपथ्यं वा रसाः सर्वेsपि नीरसाः। अपि भुक्तं विषं घोरं पीयूषमिव जीर्यते॥६९॥
  70. क्षयकुष्ठगुदावर्तगुल्मशूलज्वरव्यथा। रोगाः सर्वे क्षयं यान्ति महामुद्रां च योsभ्यसेत्॥७०॥
  71. कथितेयं महामुद्रा महासिद्धिकरा नॄणाम्। गोपनीयं प्रयत्नेन न देयं यस्य कस्यचित्॥७१॥
  72. पद्मासनं समारुह्य समकायशिरोदरः। नासाग्रे दृष्टिरेकाकी जीवे ( जपे ) दोङ्कारमव्ययम्॥७२॥
  73. भूर्भुवः स्वरिमे लोकाश्चन्द्रसूर्याग्निदेवताः। त्रयो वर्णा स्थितो यत्र तत्परं ज्योतिरोमिति॥७३॥
  74. अकारश्च उकारश्च मकारो बिन्दु – संज्ञकः। त्रयो वर्णाः स्थिता यत्र तत्परं ज्योतिरोमिति॥७४॥
  75. त्रयः काला स्त्रयो लोकास्त्रयो वेदास्रयो स्वराः। त्रयो देवा स्थिता यत्र तत्परं ज्योतिरोमिति॥७५॥
  76. वचसा यज्जपेद्बीजं वपुषा यत्समभ्यसेत्। मनसा यत्स्मरेन्नित्यं तत्परं ज्योतिरोमिति॥७६॥
  77. शुचिर्वाप्यशुचिर्वापि जपेदोङ्कारमव्ययम्। न स लिप्यति पापेन पद्मपत्रमिवाम्भसा॥७७॥
  78. चले वाते चलेत्सर्वं निश्चले निश्चलं तथा। योनिस्थानमवाप्नोति ततो वायुं निरोधयेत्॥७८॥
  79. यावद्वायुः स्थितो देहे तावज्जीवं न मुञ्चति। मरणं तस्य निष्प्राण्ह ततो वायुं निरोधयेत्॥७९॥
  80. यावद्बद्धो मरुद्देहे तावच्चित्तं निरामयम्। यावच्चुक्षुर्भ्रुवोर्मध्ये तावत्कालभयं कुतः॥८०॥
  81. अतः मू ( का ) लभयाद्ब्रह्म प्राणायामपरायणः। योगिनामुत्तमश्चैव ततो वायुः निरोधयेत्॥८१॥
  82. षट्त्रिंशदङ्गुलो हंसः प्रयाणं कुरुते बहिः। वामदक्षिणभागेन ततः प्राणो निधीयते॥८२॥
  83. शुद्धियेत यदा सर्वं नाडिजालं महाजलम् ( मलाकुलम् )। तथै ( दै ) व जायते योगी समप्राण निरोधने (प्राणसंग्रहणेक्षमः )॥८३॥
  84. बद्धः पद्मासने योगी प्राणं चन्द्रेण पूरयेत्। धारयित्वा यथाशक्ति पुनः सूर्येण रेचयेत्॥८४॥
  85. अमृतद्रवसंकाशं गोक्षीरधवलोपमम्। ध्यात्वा चन्द्रमयं बिम्बं प्राणायामे ( मी ) सुखो ( खी ) भवेत्॥८५॥
  86. प्राणं सूर्येण चाकृष्य पूरयेदुदरं शनैः। कुम्भयित्वा विधानेन पूनश्चन्द्रेण रेचयेत्॥८६॥
  87. प्रज्वल – ज्वलन – ज्वाला – पुंजमादित्यमण्डलम्। ध्यात्वा नाभिस्थितं योगी प्राणायामे सुखी भवेत्॥८७॥
  88. प्राणं चेदिड्या प्रवेश्य च तथा भूयोन्यया रेचयेत्। पीत्वा पिङ्गलया समीरणचयं बद्धवा त्यजेद्वामया॥८८॥
  89. सूर्याचन्द्रमसोरनेन विधिना बिम्बद्वयं ध्यायतां। शुद्धा नाडिगणा भवन्ति यमिनां मासत्रयादूर्ध्वतः॥८९॥
  90. यथेष्टं धारणा वायोरनलस्य प्रदीपनम्। नादाभिव्यक्तिरारोग्यं जायते नाडिशोधनात्॥९०॥
  91. प्राणो देहे स्थितो वायुरपानस्य निबन्धनम्। एकस्य श्वसने मात्रमुद्धाटेद्गमने गतिः॥९१॥
  92. रेचकः पूरकश्चैव कुम्भकः प्रणवात्मकः। प्राणायामो भवेत् त्रेधा मात्रा द्वादश संस्कृतः॥९२॥
  93. मात्रा द्वादशसंयुक्ता दिवाकरनिशाकरौ। दोषजालं विनिघ्नन्तौ ज्ञातव्यौ योगिभिस्सदा॥९३॥
  94. अधमो द्वादशः प्रोक्तो मध्यमो द्विगुणः स्मृतः। उत्तमस्त्रिगुणः प्रोक्तः प्राणायामस्य निर्णयः॥९४॥
  95. अधमस्याधमो धर्मः कम्पो भवति मध्यमः। उत्तमःस्थाणुमाप्नोति ततो वायुं निरुन्धयेत्॥९५॥
  96. बद्धपद्मासनो योगी नमस्कृत्वा गुरुं शिवम्। नासाग्रे दृष्टिमादाय प्राणायामं समभ्यसेत्॥९६॥
  97. द्वाराणां नर ( व ) कं निरुध्य पवन जित्वा दृढं धारयेत्। नीत्वाकाशमपानवह्निसहितं शक्त्या समुच्चालितम्॥९७॥
  98. ऊर्ध्वमाकृष्य चापानं वायुं प्राणेन योजयेत्। अपानेन धत्ती प्राणं सर्वपापैः प्रमुच्यते॥९८॥
  99. आत्मध्यानयुतं त्वनेन विधिना साभ्यासमूर्ध्वं सुखम्। यावत्तिष्ठति तावदेव महता सांख्येन संस्तूयते॥९९॥
  100. प्राणायामो भवत्येषः पातके घन पावकः। भवेद्व्याधिमहासेतुः प्रोच्यते योगिभिस्सदा॥१००॥
  101. आसनेन रुजं हन्ति प्राणायामेन पातकम्। विकारं मानसं हन्ति प्रत्याहारेण योगवित्॥१०१॥
  102. धारणाया मनोधैर्यं ध्यानादैश्वर्यमद्भुतम्। समाधेर्मोक्षमाप्नोति त्यक्त्वा कर्मशुभाशुभम्॥१०२॥
  103. प्राणायामद्विषट्केन प्रत्याहारः स उच्यते। प्रत्याहारद्विषट्केन जायते धारणा शुभा॥१०३॥
  104. धारणाद्वादशं प्रोक्तं ध्यानं ध्यानविशारदैः। ध्यानद्वादशकेनैव समाधिरभिधीयते॥१०४॥
  105. यस्समाधिः परं ज्योतिः सर्वाङ्गं विश्वतोमुखम्। तस्माद् दृष्ठुं क्रिया कार्या यातायातं निपातिते॥१०५॥
  106. संबध्यासनमूलमंघ्रिघटितं कर्णाक्षिनासापुट – द्वाराण्यङ्गुलिभिर्नियम्य पवनं वक्त्रेण वा पूरितम्॥१०६॥
  107. धृत्वा वक्षसि वह्निवायुसहितं घूर्णिस्थितं धारयेत्। एवं याति शिवेन तच्च समता योगी चिरं जीवति॥१०७॥
  108. गगनं पावने प्राप्ते ध्वनिरुद्येत्ततो महान्। घंटादिनादं गम्भीरं सिद्धिस्तस्य न दूरतः॥१०८॥
  109. प्राणायामेन युक्तेन सर्वपापक्षयो भवेत्। अयुक्ताभ्यासयुक्तेन सर्वरोगसमुद्भवः॥१०९॥
  110. हिक्काश्वास्यं तथा कासः शिरःकर्णाक्षिवेदना। भवन्त्यविधिना दोषां पवनस्य व्यतिक्रमात्॥११०॥
  111. यथा सिंहो गजो व्याघ्रो भवेद्वशः शनैः शनैः। अन्यथा हन्ति योक्तारं तथा वायुरसेवितः॥१११॥
  112. युक्तं युक्तं त्यजेद्वायुं युक्तं युक्तं च पूरयेत्। युक्तं युक्तं च बन्धीयात् एवं सिद्धिं निगच्छति॥११२॥
  113. चरतां चक्षुरादीनां विषयेषु यथाक्रमम्। यत्प्रत्याहरणं तेषां प्रत्याहारः स उच्यते॥११३॥
  114. यथा तृतीयकालस्थो रविः संहरते प्रभाः। तृतीयाङ्गस्थितो योगी विकारं मानसं तथा॥११४॥
  115. अङ्गमध्ये यथाङ्गानि कूर्मः संकोचमाचरेत्। योगी प्रत्याहरेच्चैवमिन्द्रियाणि तथात्मनि॥११५॥
  116. यं यं श्रृणोति कर्माभ्यां प्रियं वाप्यथवाsप्रियम्। तं तमात्मेति संपश्यन् प्रत्याहारस्स उच्यते॥११६॥
  117. सुखमुष्णं समं दुःखं वाचा संस्पृश्यते तु यत्। तं तमात्मेति संपश्यन् प्रत्याहारः स उच्यते॥११७॥
  118. अगन्धमथवा गन्धं यं यं जिघ्रेति नासया। तं तमात्मेति संपश्यन् प्रत्याहारः स उच्यते॥११८॥
  119. चन्द्रामृतमयीं धारां प्रत्याहरति भास्करः। तं प्रत्याहरणं यत्तु प्रत्याहारः स उच्यते॥११९॥
  120. एकांस्त्रि युज्यते त्वाभ्यां आगता सोममण्डलात्। तृतीयो यः पुनस्ताभ्यां स भवेच्चाजरामरः॥१२०॥
  121. नाभिमध्ये वसत्येषो भास्करो दहनात्मकः। अमृतात्मा स्थितो नित्यं तालुमध्ये तु चन्द्रमाः॥१२१॥
  122. वर्षत्यधोमुखं चन्द्रो ग्रसत्यूर्ध्वमुखो रविः। विपरीतस्य करणं तत्र येन पीयूषमाप्यते॥१२२॥
  123. ऊर्ध्वं नाभिरधस्तालुरूर्ध्वं भानुरधश्शशी। करणं विपरीताख्यं गुरुवाक्येन लभ्यते॥१२३॥
  124. त्रिधा बद्धो वृषो यत्र रोरवीति महान् पुनः। अनाहतं च तच्चक्रं योगिनो ह्यतिदुःखभित्॥१२४॥
  125. अनाहतमतिक्रम्य आकृष्य मणिपूरकात्। प्राप्ते प्राणे तथा पद्मं योगिनाममृतायते॥१२५॥
  126. ऊर्ध्वं षोडशपद्मपत्रगलितं प्राणादवाप्तं हठात्। ऊर्ध्वास्ये रसनां नियम्य विवरे शक्तिं परां चिन्तयन्॥१२६॥
  127. उत्कल्लोलकलाजलं सुविमलं जिह्वाकुलं यः पिबेत्। निर्दोषस्य मृणालकोमलवपुः योगी चिरं जीवति॥१२७॥
  128. काकचञ्चुपुटास्येन शीतलं सलिलं पिबेत्। मासार्धेन ( वि – ) संमोहः सर्वरोगविवर्जितः॥१२८॥
  129. विशुद्धं परमं चक्रं भूत्वा सोमकलात्मकम्। उन्मार्गेणात्र जलं याति वञ्चयित्वा मुखे रवौ॥१२९॥
  130. प्राणापानविधानेन योगी भवति निर्जरः। रसनातालुमूलेन यः प्राणं सततं पिबेत्॥१३०॥
  131. बद्धवा सोमकलाजलं सुविमलं कर्णस्थलादूर्ध्वतो। नासान्तं सुचिरेण याति गमनद्वारं ततः सर्वतः॥१३१॥
  132. ऊध्वास्ये भ्रुवसन्निवेश नयने सिक्ताङ्गगात्रं पिबेत्। एवं यो विजितेन्द्रियमना नैवास्ति तस्य क्षयः॥१३२॥
  133. ऊर्ध्वजिव्हस्ततो भूत्वा सोमपानं करोति यः। मासार्धे नात्र सन्देहो मृत्युं जयति योगवित्॥१३३॥
  134. सम्पीड्य रसनाग्रेण राजदन्तैर्बिलं महत्। ध्यात्वामृsत्मयीं देवीं षण्मासेन कविर्भवेत्॥१३४॥
  135. बद्धमूर्ध्वफलं येन तेन मृत्युं निवारितम्। अजरामरमाप्नोति यथा पञ्चमुखो हरः॥१३५॥
  136. आसनेन समायुक्तः प्राणायामेन च संयुतः। प्रत्याहारेण सम्पन्नो धारणं च समभ्यसेत्॥१३६॥
  137. सर्वद्वाराणि बन्धाति यदूर्ध्वं तु बिलं धृतम्। न मज्जत्यत्यमृतं क्कापि सम्पन्नाः पञ्चधारणाः॥१३७॥
  138. चुं………….तायद्धि लम्बिकाग्रमनिशं जिह्णा रसस्यन्दिनी। सक्षीराकटुक्काथदुग्धसदृशो मध्वाज्यतुल्योधवः॥१३८॥
  139. व्याधिनां हरणं जरान्तकरणं शास्त्रागमो धीरणम्। तस्य स्यादमृतत्वमष्टगुणकं सिद्धाङ्गनाकर्षणम्॥१३९॥
  140. अमृतं पूर्णदेहस्य योगिनो द्वित्रिवत्सरात्। ऊर्ध्वं प्रवर्तते तस्य अणिमादिगुणोदयः॥१४०॥
  141. नित्यं सोमकलापूर्णं देही देहं न मुञ्चति (१४० अ)। आसनेन समायुक्तः प्राणायामेन संयुतः। प्रत्याहरणसम्पन्नः धारणं च समभ्यसेत्॥१४१॥
  142. भूरादिपंचभूतानां धारणा च पृथक् पृथक्। मनसो निश्चलत्वेन धारणा च विधीयते॥१४२॥
  143. य त्पृथ्वी हरितालहेमरुचिरं तत्त्वं लकारान्वितम्। संयुक्तं कमलासनेन हि चतुःकोणा हरिस्थायिनी॥१४३॥
  144. प्राणांस्तत्र विलीय्य पंच घटिकाचित्तान्वितं धारयेत्। तेषां स्तंभकरी सदा क्षितिजया कुर्यत्ततो धारणा॥१४४॥
  145. अर्धेन्दुप्रतिमं च कुन्दधवलं कर्णे च तत्त्वस्थितं। तत्पीयूषवकारबीजसहितं युक्तं सदा विष्णुना॥१४५॥
  146. प्राणं तत्र विलीय्य पंचघटिकाचित्तान्वितं धारयेत्। विषाग्निः सह कालकूट रजिना तद्वारुणी धारणा॥१४६॥
  147. तालौ संस्थितमिन्द्रागोपसदृशं तत्त्वं त्रिकोणान्वितम्। तेजो रेफमयं प्रवालरुचिरं रुद्रेण सत्संगतम्॥१४७॥
  148. प्राणांस्तत्र  विलीय्य पंच घटिका चित्तान्वितं धारयेत्। तेषां वह्निमसंशयं तु ज्वलते वैश्वानरी धारणा॥१४८॥
  149. यद्भिन्नांजनपुंजसन्निभमिदं दृष्ट्वा भ्रुवोरन्तरे॥१४९॥
  150. तत्त्वं सत्यमयं यकारसहितं यत्रेश्वरो देवता। प्राणांस्त विलिय्य पंचघटिका चित्तान्वितं धारयेतू॥१५०॥
  151. तेषां योगमनं ( लं ) करोति यमिनां सा वायवी धारणायाः। आकाशं शुचिशुद्ध व्योम सदृशं यद्ब्रह्मरन्ध्रस्थितम्॥१५१॥
  152. तन्मध्ये ( च ) सदाशिवेन सहितं युक्तं यकाराक्षरम्। प्राणांस्तत्र विलीय्य पञ्चघटिका चित्तान्वितं धारयेत्॥१५२॥
  153. तेषां मोक्षकवाटभेदनपटुः प्रोक्ता नभोधारणायाः। स्तम्भी निद्रा – चैव दाहिनी भ्रामिणी तथा॥१५३॥
    शोषणा च भवत्येषा भूतानां पञ्चधारणा॥१५४॥
  154. कर्णानां मधुराः सर्वा धारणा पञ्च दुर्लभाः। विज्ञाताः सततं येन सर्व पापैः प्रमुच्यते॥१५५॥
  155. सर्वद्वित्वा समायुक्तं योगिनो हृदि वर्तते। यत्तत्त्वे निश्चलं चेतस्तद्ध्यानं च प्रचक्षते॥१५६॥
  156. द्विधा भवति तद्ध्यानं सगुणं निर्गुणं तथा। सगुणं वर्णभेदेन निर्गुणं केवलं विदुः॥१५७॥
  157. अश्वमेधसहस्राणि वाजपेयशतानिच। एकस्य ध्यानयोगेन ( ? ध्यानयोगस्य ) कलां नार्हन्ति षोडशीं॥१५८॥
  158. अन्तश्चेता बहिश्चक्षुरधिष्ठाय सुखासनम्। समत्वंच शरीरस्य ध्यानमुद्रेति कीर्तिता॥१५९॥
  159. आधारं प्रथमं चक्रं तप्तकाञ्चनसन्निभम्। नासाग्रे दृष्टिमादाय ध्यात्वा मुञ्चति किल्बिषम्॥१६०॥
  160. स्वाधिष्ठानं द्वितीयं च सन्माणिक्यशिखोपमम्। नासाग्रे दृष्टिमादाय ध्यात्वा संशोभते जगत्॥१६१॥
  161. हृदाकाशस्थितं चक्रं प्रचण्डरवितेजनम्। नासाग्रे दृष्टिमादाय ध्यात्वा ब्रह्ममयो भवेत्॥१६२॥
  162. सततं कर्णिकामध्ये विशुद्धं चक्रमुच्यते। नासाग्रे दृष्टिमादाय ध्यात्वा दुःखात्प्रमुच्यते॥१६३॥
  163. स्रवत्पीयूषसम्पूर्णं लम्बिके चन्द्रमण्डलम्। नासाग्रे दृष्टिमादाय ध्यात्वा मृत्युं प्रमुञ्चति॥१६४॥
  164. भ्रुवोर्मध्ये स्थितं देवं स्निग्धमौक्तिकसन्निभम्। नासाग्रे दृष्टिमादाय ध्यात्वानन्दमयं भवेत्॥१६५॥
  165. ध्यानेन लक्षणं नित्यं ( लक्षयेनित्यं ) भ्रूमध्ये परमेश्वरम्। आत्मनं विजितप्राणो योगी योगमवाप्नुयात्॥१६६॥
  166. निर्गुणञ्च शिवं शान्तं गगने विश्वतोमुखम्। भ्रूमध्ये दृष्टिमादाय ध्यात्वा ब्रह्ममयो भवेत्॥१६७॥
  167. निर्मलं गगनाकारं मरीचिजलसन्निभम्। आत्मानं सर्वगं ध्यात्वा योगी योगमवाप्नुयात्॥१६८॥
  168. गुदं मेढ्रश्च नाभिश्च हृदयं चक्रमूर्ध्वतः। घटिका लम्बिका स्थानं भ्रूमध्यञ्च नभोबिलम्॥१६९॥
  169. कथितानि चैवैतानि ध्यानस्थानानि योगिनाम्। उपाधितत्त्वयुक्तानि कुर्वन्त्यष्टगुणोदयम्॥१७०॥
  170. उपाधिस्थतया तत्त्वं द्वयमेतमुदाहृतम्। उपाधिः प्रोच्यते वर्णः तत्त्वमात्माभिधीयते॥१७१॥
  171. उपाधिरन्यथा ज्ञानं तत्त्व संस्थितिरन्यथा। समस्तोपाधि निर्मुक्तं तत्तत्त्वं योगिनो विदुः॥१७२॥
  172. शब्दादीनां च तन्मात्रं यावत्कर्मादिषु स्थितम्। उपाधिवर्णयोगेन दृश्यते स्फटिको मणिः॥१७३॥
  173. युक्तयः शक्तिभेदेन तत्सदात्म प्रकाशिते॥१७३ अ॥
  174. विरजं परमाकाशं यद्यदक्षरमव्ययम्। स्तौति श्रुतिकृतिरहोरात्रं तत्त्वं तत्त्वविदोविदुः॥१७४॥
  175. तावद्व्यवस्थितं ध्यानं तत्समाधिपरं तपः। धारणं पञ्च नाड्यस्तु ध्यानं षट् चैव नाडिकाः॥१७५॥
  176. ये द्वादशचक्रेनैव समाधि प्राणसंयमः। अम्बुसैन्धवयोस्साम्यं यदा भवति योगतः। तथात्ममनसोरैक्यं समाधिः सोsभिधीयते॥१७६॥
  177. यथा संक्षीयते प्राणो मानसञ्च विलीयते। तथा समरासैकत्वं समाधिः सोsभिधीयते॥१७७॥
  178. इन्द्रियाणि मनोवृत्तिरपरोक्षेपयाहि सः (?)। अद्वयत्वं गते जीवे न मनो इन्द्रियाणि च॥१७८॥
  179. न गन्धो न रसं रूपं न स्पर्शो न च निस्वनः। नात्मानञ्च परं वेद योगयुक्तः समाधिना॥१७९॥
  180. अभेद्यः सर्वशास्त्राणां अबाध्यः सर्वदेहिनाम्। बाध्यते न च कालेन बाध्यते न च कर्मणा॥१८०॥
  181. साध्यते न च केनापि योगी युक्तः समाधिना। अग्राह्यो मन्त्रशास्त्राणां योगी युक्तः समाधिना॥१८१॥
  182. युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु। युक्तस्वप्नावबोधस्य योगो भवति दुःखहा॥१८२॥
  183. निरातङ्कं निरालम्बं निष्प्रपञ्चं निराश्रयम्। निरामयं निराकारं तत्त्वं तत्त्वविदो विदुः॥१८३॥
  184. निर्मलं निश्चलं नित्यं निर्गुणं निष्क्रियं महत्। व्योमविज्ञानमानन्दं ब्रह्म ब्रह्मविदो विदुः॥१८४॥
  185. कातु दृष्टान्त निर्मुक्तमनुबन्धेरगोचरम्। व्योमविज्ञानमानन्दं ब्रह्म ब्रह्मविदो विदुः॥१८५॥
  186. दुग्धे क्षीरं धृते सर्पिर्वह्नौ वह्निरिवार्पितम्। अव्ययत्वं व्रजेदेवं योगी लीनः परात्परे॥१८६॥
  187. भववनजवह्निं मुक्तिसोपानमार्गम्। प्रकटितपरमार्थं ग्रन्थगुह्यञ्च गुह्यम्॥१८७॥
  188. सकृदपि पठति चायं यः श्रृणोति प्रबद्धम्। स भवति भुवि भव्यो भाजनं मुक्तिमुक्तयोः॥१८८॥
    ॥ इति श्रीगोरक्षनाथविरचिते योगशास्त्रे योगमार्तण्डः समाप्तः॥
    ॥ साम्बसदाशिवार्पणमस्तु॥
Kindle